પૃષ્ઠ:Saraswati Chandra Part 1.pdf/૧૮

વિકિસ્રોતમાંથી
આ પાનું પ્રમાણિત થઈ ગયું છે.
इच्छा ने परेच्छा च प्रारब्धं त्रिविधं स्मृतम् ॥
अपथ्यसेविनश्चोरा राजदारस्ता अपि ।
जानन्त इव स्वानर्थमिच्छन्त्यारब्धकर्मतः ॥
न चात्रैतद्वारयितुमीश्वरेणापि शक्यते ।
यत ईश्वर एवाह गीतायामर्जुनं प्रति ॥
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥
अवश्यंभाविभावनां प्रतीकारो भवेद्यदि ।
तदा दुःखैर्न लिप्येरन् नलरामयुधिष्ठिराः ॥
अनिच्छापूर्वकं चास्ति प्रारब्धमिते तच्छृणु ॥
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥
स्वभावजेन कौन्तेय विबद्धः स्वेन कर्मणा ।
कर्त्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत्॥
नानिच्छन्तो न चेच्छन्तः परदाक्षिण्यसंयुता: ।
सुखदुःखे भजन्त्येत्त्परेच्छापूर्वकर्म हि ॥ पञ्चदशी.